पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


आर्द्रीभवत्यपि दृषत् कठिनास्य योगे
 सोऽपि स्वयं पतति कालवशान्मृगाङ्कः ॥ ४४ ॥

रात्रेः प्रयाणशिथिलं शिथिलोडुचक्र-
 मामोदलुब्धमधुपाकुलमन्धकारम् ।
आक्रष्टुमिच्छति करैरतिरागलोलै-
 र्विस्त्रस्त पुष्पमिव केशकलापमर्कः ॥ ४५ ॥

स्तोकोद्गतोऽपि रविशेष सरोजिनीपु
 पुष्णाति सम्पदमपास्यति कोकशोकम् ।
तेजस्विनामनतिलङ्घ्यमहोदयाना-
 मीषत्कराः खलु भवन्ति परोपकाराः ॥ ४६ ॥

आमोदलोलुपशिलीमुखपातभीत्या
 निद्रां मदार्द्रमभिवेष्टय कटं करेण ।
आलानरोधपरिजिह्नितपार्श्वशय्याः
 स्तम्बेरमाः स्तिमितकर्णममी वहन्ति ॥ ४७ ॥

वाहानिह क्षणसुषुप्तविनीतनिद्रा-
 नभ्यर्णवर्तिबडबेक्षणजातहेषान् ।
आधूत[]शिञ्जितनिगालविलम्बिभाण्डान्
 हा[]हो[]रवेण शमयन्ति तुरङ्गपालाः ॥ ४८ ॥

म्लिष्टं यदीरितमुपश्रुति मुग्धवध्वा
 साशङ्क्या प्रियतमं प्रति निःशलाके ।
तत् तारतारमधुना शतशः पठन्तः
 कीराः किरन्ति पिशुना इव मन्त्रगुह्यम् ॥ ४९ ॥


  1. 'ति' ख. पाठ:.
  2. 'होहोर' ग.पाठ:.
  3. 'हा' ख. पाठ:.