सद्यः सिद्धमनिष्टहारि हितकृत् कोष्णं हिमोद्भेदनं
मन्दोद्गालितमम्बरे दहनकृद् ग्राव्णां गणेऽप्याहि[१]तम् ।
दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं
नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः॥ ५० ॥
इति सुखमवबोधितोऽथ सूतैः
सुविहितनित्यविधिक्रमो नरेन्द्रः।
अभजत कनकासनं सभायां
हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१॥
|
इति कृष्णविरचिते भरतचरिते
अथ विश्वम्भरां बाहुरनायासेन भूपतेः ।
दधार तस्य हृदयमायासेन शकुन्तलाम् ॥१॥
स विशुद्धगुणोल्लासिहृदयालम्ब्य[२]पि स्वयम् ।
दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥
दुष्टसत्त्वप्रशमनीं सैनिकानन्दकारिणीम् ।
ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥
अथ विश्वास्यधिषणः शतकोटिबलं वहन् ।
उत्तस्थौ लोकपाले(श ? शः) शैलव्यालजिघांसया ॥ ४ ॥
ससम्भ्रमजनोत्थानविज़म्भितघनध्वनि ।
भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥
|
- ↑ 'ह',
- ↑ 'ङ्घच' ग. पाठः