पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
भरतचरिते


सचिवालम्बितकरः पृथ्वीमारूढपादुकः ।
रक्तामपि स रक्ताभ्यां पद्भ्यां क्षणमरञ्जयत् ॥ ६ ॥

उत्सारिता वेत्रधरैर्जनता मण्डलीकृता ।
जङ्गमा भित्तिकेवास्य रेजे पर्यन्तचारिणी ॥ ७ ॥

स यात्रायामभूत् सद्यः प्रस्फुरदक्षिणेक्षणः ।
हृदयं तु बभूवास्य स्फुरद्वामेक्षणं सदा ॥ ८ ॥

पृथ्वक्षं हेमरुचिरमहीनमणिमण्डनम् ।
आरुरोह रथं सोऽथ गरुत्मन्तमिवाच्युतः ॥ ९ ॥

हेषाः कल्याणशंसिन्यो रथ्यानां तस्य निर्गमे ।
जयेति वन्दिनां घोषं तथेति प्रतिशुश्रुवुः ॥ १० ॥

शब्दसंत्रासितारातिः सदाकृतयुगस्थितिः ।
चक्रवर्ती रथस्तस्य यातुः स्वयमिवाबभौ ॥ ११ ॥

तस्य रेजे सितच्छत्रं हारतारांशुकोज्ज्वलम् ।
राजश्रीलब्धसौभ्रात्रमिन्दुबिम्बमिवोद्गतम् ॥ १२ ॥

पार्श्वयोरतस्य बभ्राम धवलं चामरद्वयम् ।
मन्दहासविसोत्साहिहंसयुग्मभिवाकुलम् ॥ १३ ॥

मर्यादास्थापितामुर्वीमधिष्ठाय समुत्थितम् ।
वाहिन्यस्तमसेवन्त रत्नानामाकरं पतिम् ॥ १४ ॥

रत्नाचित्रितकोदण्डाः श्यामतूणीरकञ्चुकाः ।
योधास्तमन्वसेवन्त सेन्द्रचापाम्बरश्रियः ॥ १५ ॥

तस्य चित्रपदन्यासाः सालङ्कारा गुणोत्तराः ।
प्रयुक्ताः कुशलैरश्वाः प्रबन्धा इव रेजिरे ॥ १६ ॥