तस्येन्दोरिव नाथस्य लाजवर्षाणि पार्श्वयोः ।
न[१]क्षत्राणीव यामिन्यः कामिन्यस्त[२]त्र तेनिरे ॥ २७ ॥
प्रयाणपटहस्तस्य नर्तयन् गृ[३]हबर्हिणः[४] ।
दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः ॥ २८ ॥
ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम् ।
अपर्य[५] मभूत् तस्य सुरभेरिव दोहनम् ॥ २९ ॥
अथ नौभिस्त्रिपथगामगाधां साधुसेविताम् ।
स तताराङ्गविद्याभिस्त्रयीमिव जगद्विताम् ॥ ३० ॥
अगजां सगजा तस्य सभङ्गां भङ्गवर्जिता ।
वाहिनीं वाहिना चैनां स्पर्धयेवायलङ्घयत् ॥ ३१ ॥
तस्य सेना पुरो यान्ती दूर[६]दूरप्रसारिता[७] ।
उदितस्येव सवितुश्वकाशे दीधितिच्छटा ॥ ३२ ॥
सद्यः शाङ्कुलिकोत्खातशत्रु कण्ट कशर्कराः ।
आ हिमाद्रेः सुपन्थानः कल्पितास्तस्य शिल्पिभिः ॥ ३३ ॥
रम्योरुकदलीकाण्डां कलकीरस्वरान्विताम् ।
पयोधरतटास्तीर्णां कल्याणक्षेत्रलक्षणाम् ॥ ३४ ॥
विशालवृत्त्यावक्षिप्तमृगपूगविलोकनाम् ।
कलमालीकृताश्वासस्व कर्षकयुवेक्षिताम् ॥ ३५ ॥
कमलोत्पलसंभिन्न कुल्याम्भोमालभारिणीम् ।
स वर्त्मनि ययौ प्रौढां पश्यन् नारीमिवोर्वराम् ॥ ३६ ॥