क्षणमपास्य हिमाश्रुकणावली -
र्नवसरोजमुखानि विकासयन् ।
अपजहार मधुर्विरहक्लमं
कमलिनी[१]र्दयिता इव संश्रितः ॥ १५ ॥
अथ मधुश्रिय मित्थमुदञ्चितां
वनसुपेत्य नराविषयोषितः ।
अनुबभूवुरभीष्टतमैः समं
भजसिजस्व नवामिव सम्पदम् ॥ १६ ॥
विनधिताः कुसुमेषु शिलीमुखै-
र्विटपिनद्यशिरोजगुणोज्ज्वलाः ।
तरुणपल्लवदुर्ललिताश्रयो
वनलता इव रेजुरभूः स्त्रियः ॥ १७ ॥
अभिनवप्रसवोपनतोत्सवाः
प्रियसखीरिव मानवितुं लताः ।
मृदुलपल्लवपाणिषु वाणिभि
र्जगृहिरे कृतसंभ्रममङ्गनाः ॥ १८ ॥
विनमिताः कुसुमापचये कृते
विटपिनस्तरुणीभिरथोज्झिताः ।
हृतधना इव कामिजनाश्चिरं
विरहमीरुतयेव[२] चकम्पिरे ॥ १९ ॥
विनामते तरुणेन तरौ रुषा
न वनिता कुसुमानि समाचिनोत् ।