नखरुचः कुसुमस्य व भेदकं
गुणमसंशयनीक्षितुमक्षना ॥ २० ॥
असकृदुच्चलितोच्चकुचाग्रया
विवृतचारुभुजद्वयमूलया !
कुसुमजालमहारि महेलया
हृदयमेव न केवलमीशितुः ॥ २१ ॥
उदसितुं दृशि पुष्परजःकणान्
मृगदृशः स्वभारविमर्दितः ।
नयनयोर्मुखमारुतमर्पयत्
हृदि युवा मदनाशिमदीपयत् ॥ २२ ॥
चरणघातविधूतिषु योषितां
व्यथितये [१]व मधुव्रतकूजितैः ।
विधुत पल्लवलोलकराग्रया
लतियारमरावि ससंभ्रमम् ॥ २३ ॥
भ्रमरकान्तविलुप्तविशेषकं
सखि ! मुखं हृदि माणवकत्तव[२] ।
इति सखी छलवादविचक्षणा
कुपितया दयितं सम्यूयुजत् ॥ २४ ॥
क्षणमिहा[३]स्स्व विविक्तमिदं वनं
शिथिलितं कलयामि तनांशुकम् ।
इति विलोभ्य स मुग्धवधूं युवा
किमपरं कथनीयमतः परम् ॥ २५ ॥