मुखरनूपुरहंसरवाकुला
ययुरपः प्रति धर्मपयोवहाः ॥ ३१ ॥
धवलपक्षतिचोलपरिष्कृतै
र्नवलताकुरवेत्रधरैः सह ।
परिजनैरिव हंसगणैः स्त्रियः
सरमणाः सर[१]सस्तटमाययुः ॥ ३२ ॥
तदनु कूलमवाप महीपतिः
पटगृहे सरसः सपरिग्रहः।
तदनुकूलमधत्त विभूषणं
विहृतये सरसः स वधूगणः ॥ ३३ ॥
सरसचन्दनकुकुमपङ्किलाः
प्रियकरार्चितलोलकराः स्त्रियः।
सरसि गैरिकरागविरूषिता
वनकरिण्य इवाथ विजहिरे ॥ ३४ ॥
भरितयौवनवारि मृगीदृशां
मदनदन्तिवरक्षुभितं मुहुः।
तरुणलोचनमीनकुलाकुलं
सपदि नाभिसरः सरसामिलत् ॥ ३५॥
विमथितं वनितास्तनमण्डलै
र्गुरुसरोहृदयं परिचुक्षुभे ।
न खलु जीवनसारमिदं जग
न्मृगदृशां चरितैरवशीकृतम् ॥ ३६ ॥