बडिशसूत्रमिवाम्बु मृगीदृशां
मृदुलधारमपात्यत कामिभिः[१] ॥ ४२ ॥
करपुटादपरेण निपातितं
सरलधारमभङ्गरयं पयः ।
सुचिरमास्त वधूश्रवणान्ति के
रहसि वक्तुमिवास्य मनोरथम् ॥ ४३ ॥
प्रियकराञ्जलियन्त्रसमुत्थितं
वलयितं यदवाप वधूमुखम् ।
क्षणमलक्ष्यत तज्जलमुज्ज्वलं
दशनदीधितिचक्रमिवो[२]ज्ज्वलम् ॥ ४४ ॥
हृदयवल्लभ ! दुर्लभदर्शन-
स्त्वमसि तत् कठिनं हृदयं तव ।
इति निगद्य कयापि समुत्थितं
कमितुरार्द्रयितुं हृदयं ध्रुवम् ॥ ४५ ॥
कमलमर्पय तर्पयता जलै-
रिति शठेन वधूः सहसोदिता।
प्रचुरमम्बु मुमोच विचक्षणा
वचसि सापि परे नतु प[३]ङ्कजम् ॥ ४६ ॥
मधु पिपासति मुख्यमयं जनः
सुतनु ! ते न कराम्बुरुहोद्भवम् ।
इति दृशा रमणेन समीरिता
रविमुदैक्षत सस्मितमङ्गना ॥ ४७ ॥