कुपितयेव कयापि मुहुः स्थितं
सपदि वञ्चयितुं प्रियमुक्षणैः ।
स तु शठः प्रणिधानपरोऽभवद्
विहसिता च सखीभिरसौ मुहुः ॥ ४८ ॥
सुतनु ! मुञ्चसि[१] काञ्चनकङ्कणं
ससलिलं सुभगाय रसोत्सुका ।
इति सखीभिरगद्यत कामिनी
सपरिहासमपो[२]ढविभूषणा[३] ॥ ४९ ॥
अभिनवं मम गोत्रमिदं कृतं
दयित! ते दयितं तदिहास्तु मे ।
यदि भवेयमभीष्टतमामुने.
त्यपरयाम्बु गृहीतमुपेक्षितम् ॥ ५० ॥
नववधूवदनाम्बुरुहे मुहु-
र्विनमिते जनसंसदि लज्जया ।
तदवलोकनकामितयापरः
सलिलदण्डमुपनमिवार्पयत् ॥ ५१ ॥
लुठ[४]सि मे दयितास्तनमण्डले
तदिह हार ! न सोढुमहं क्षमः ।
इति रुषेव युवा जलधारया
प्रियतमोरसि हारमघट्टयत् ॥ ५२ ॥
अलमलङ्करणाय दृशोः श्रियः
श्रवसि किं निहितेन मुधामुना ।