हन्त मित्रविरहाकुलात्मनां
निष्फला: पुरुषकारसंपदः ॥ ११ ॥
संवृते दिनमणी विहङ्गमाः
शाखिनामुपरि मूकतां ययुः ।
तेजसामधिपतेस्तिरस्क्रियाः
खेदयन्ति खलु पक्षपातिनः ॥ १२ ॥
रश्मिजालमिव कीर्णमर्णवे
पङ्कपातमलिनीकृतं रवेः ।
उज्जहार तिमिरं दिनात्यय-
स्तारकानिकरमौक्तिकैः समम् ॥ १३ ॥
प्लष्टमर्क किरणैरिवाम्बरं
मेदुरेण तमसा मलीमसम् ।
किञ्च घर्मजलबिन्दुसन्निभै-
रुज्ज्वलैरुडुगणैरलं बभौ ॥ १४ ॥
श्यामला तिभिरपत्रपङ्क्तिभि
स्तारकाकुसुमजालशालिनी ।
मत्तमन्मथशिलीमुखाकुला
मल्लिकेव विबभौ विभावरी ॥ १५ ॥
तादृशः समय एव योषितां
रन्तुमुत्सुकयति स्म मानसम् ।
यत् पुनर्मधु नवं च यौवनं
तद् बभूव विभवो मनोभुवः ॥ १६ ॥