एतत् पृष्ठम् परिष्कृतम् अस्ति
निवेदना ।
भरतचरितं नामेदं दुप्षन्तसूनोर्भरतचक्रवर्तिनः कथामाश्रित्य प्रवृत्तं ललितोदारसरसपद्यात्मकं किमप्यपूर्वं काव्यं व्युत्पित्सूनामत्यन्तमुपकारकम् । अस्य कविः कृष्णाचार्य इत्यादर्श लिखितमस्ति । किन्त्वसौ कदा कस्मिन् देशे स्थित इति न ज्ञातः ।
एतत्संशोधनाघारभूताः ग्रन्थास्तावदेते--
१. इडप्पळ्ळि नारायणन् भट्टतिरिसम्बन्धी क. संज्ञः ।
२. वैकं पटिञ्ञारे मनयत्ताट्टु नारायणन् नम्बूरिसकाशादानीतः ख.संज्ञः ।
३. वटक्कंकूर् राजस्वामिको ग. संज्ञः ।
अनन्तशयनम्,
२२-२-११०१. त. गणपतिशास्त्री.