कान्तमानय कृशां [१] दशामिमां
पश्य दूत्यनुनयं न लङ्घये[२] ।
प्रेम तत् प्रथितमावयोर्मिथः
किं मुधा खलजनैर्विलोड्यते ॥ २८ ॥
प्रेम तादृशमभङ्गुरं तयो-
रीदृशं तदधुना विलोक्यते ।
उच्छ्रयो ह्यतिशयेन वस्तुनः
पातहेतुरिति सत्यमुच्यते ॥ २९ ॥
इत्यसावसुहृदां मिथः कथा
मा स्म भूदिति मयानुनीयसे ।
अन्यदस्तु फलमानुषङ्गिकं
जीवितेशवशगामि जीवितम् ॥ ३० ॥
ईदृशे शशिनिशासमागमे
का वियोगमनुभूय जीवति ।
रक्ष्यतां तदिदमाशु जीवितं
चित्रकर्म सति धाम्नि युज्यते ॥ ३१ ॥
इत्थमित्थमनुधाम योषितां
भाषितान्यनु समाययुः प्रियाः ।
के हि नाम कुसुमेषुशासनं
लङ्घयन्ति भुवि जीवितेच्छवः ॥ ३२ ॥
कामकर्मपरिकर्म योषितां
नात्यवर्तत निजां वपुःश्रियम् ।