पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्तमः सर्गः ।


हेलया त्रुटितहारशृङ्खला
 सोढगाढनखराङ्कुशक्षतिः ।
योषितः स्तनकरेणुरुन्नता
 वल्लभेन दमिता कथञ्चन ॥ ६५ ॥

ह्रीभरावनतानना पुरा
 या कथञ्चन रतौ प्रयोजिता ।
सा द्वितीयसुरते समुत्सुका
 कापि कामपि जगाम विक्रियाम् ॥ ६६ ॥

कामिनामिति समागमोत्सवं
 वोक्ष्य काम विवशेव यामिनी ।
अम्बरान्तमवलम्ब्य यास्यता
 वल्लभेन सहिता विनिर्ययौ ॥ ६७ ॥

दिशि दिशि करजालमेष भानु-
 स्त्वमिव करोति महीभृतां गणेषु ।
इति सुखमवबोधितोऽथ सूतै-
 र्नृपतिरनन्तरकृत्यमन्वतिष्ठत् ॥ ६८ ॥

इति कृष्णविरचिते भरतचरिते षष्ठः सर्गः ॥


अथ सप्तमः सर्गः ।

अथैनमास्थानगतं नरेन्द्र-
 मभ्येत्य कश्चिन्महितो महर्षिः ।
रत्नाकरं सत्त्ववतां पुरोगं
 संवर्धयामास शशी[१]व गोभिः ॥ १ ॥


  1. 'चलान्त' क. ख. पाठः.