स राजसिंहः सहसावरुह्य
सिंहासानाद्रेश्वनीं विनीतः ।
पुरोधसा साकमुपाहृतार्थ्य-
स्तपोधनं तं विधिनोपतस्थे ॥ २ ॥
अथाश्रमस्थानजितारिवर्गौ
भूतिं दधान गुरुशासनस्थौ ।
स[१]प्ताङ्गयुक्तौ मणिविष्टरस्थौ
विरेजतुस्तौ मुनिराजवर्यो ॥ ३ ॥
मुनेः श्रवः प्राप्तुमिवाथ शुद्धां
मन्दस्मिताम्भः[२]स्नपितामिवार्द्राम् ।
नभोगुणत्वादिव मुक्तसङ्गां
प्रवर्तयामास गिरं नरेन्द्रः ॥ ४ ॥
तत्कालदुःखानि महाफलानि
प्रायेण कर्माणि भवन्ति लोके ।
सद्यः प्रमोदं प्रथमं प्रसूते
फलानुकूलं च विलोकनं वः ॥ ५ ॥
विकासयन्तं हृदयारविन्दं
प्रसादवत्त्वात् प्रथयन्तमाशाः ।
अन्तर्गतं ध्वान्तमपाहरन्तं
मन्ये भवन्तं भुवि भानुमन्तम् ॥ ६ ॥
व्यापारयन्तं परया स्वशक्त्या
संयोज्य कृत्येषु कयापि बुद्धया ।