विज्ञातुमिच्छन् न कथं विजाने
स्वान्तस्थितं जन्तुरिवेश्वरं त्वाम् ॥ ७ ॥
एतत् समाकर्णयतो महर्षे
र्मुखेन्दुबिम्बादमला सुधेव
प्रियावियोगग्लपितं नरेन्द्र-
माह्लादयन्ती प्रससार वाणी ॥ ८ ॥
अवेहि कण्वस्य मुनर्नियोगाद-
भ्यागतं मां कपिशाभिधानम् ।
अस्त्यत्र किश्चिद् गुरुणानुशिष्ट-
माप्तैः सह श्रोष्यति मन्त्रिभिस्त्वम् ॥ ९ ॥
आस्ते कुमारी कुलशीलयुक्ता
शकुन्तलेत्याहितनामधेया।
सा मेनकाकौशिकयोरपत्य-
मस्माकमङ्के परिवर्धिता च ॥ १० ॥
अर्कांशुजालेन सरोजिनीव
शशाङ्क बिम्बेन विभावरीव ।
प्रवालजालेन लतेव युक्ता
विभाति सा सम्प्रति यौवनेन ॥ ११ ॥
आधिश्च तेनान्वहमेधमानः
शान्त्यम्भसास्याः प्रशमं न याति ।
शरीरजन्मोपहितोऽथवासौ[१]
क मन्त्रपूतेन जलेन हार्यः ॥ १२ ॥