अस्य त्वमेवासि निभित्तमस्याः
साक्षात् प्रतीतः परया दृशा नः
अर्कादृते को हृदयं नलिन्याः
स्नेहात् समुत्कण्ठयितुं समर्थः ॥ १३ ॥
एतच्च किञ्चित् प्रणिधेयमन्यत्
तां दानवः कश्चन याचते नः ।
श्लाघ्येऽनुरक्तामपि राजहंसे
ध्वाङ्ङ्क्षः कथं काङ्क्षति राजहंसीम् ॥ १४ ॥
शुभे मुहूर्ते भविता विवाह-
स्तवेति साकूतमुदीरितश्च ।
प्राप्तेषु कृच्छ्रेषु महत्सु पुंसां
न[१] सत्यभङ्गाय भवन्ति वाचः ॥ १५ ॥
तदाश्रमं प्राप्य शकुन्तलां त्वं
गृहाण पाणौकरणेन साध्वीम् ।
को नाम दैत्यः प्रतिवीक्षितुं त्वां
दीप्तं[२] दिवाभीत इवांशुमन्तम् ॥ १६ ॥
इत्थं नियुक्तोऽसि महर्षिणा त्वं
प्रमाणवाचा विधिनेव साक्षात् ।
स्वतः प्रमाणं द्वयमेव मन्ये
वेदश्व विद्वान् स तपोनिधिश्च ॥ १७ ॥
गिरं गुरोस्तेन समाहृतां तां
तथे[३]ति मूर्ध्ना जगृहे जनेशः ।