पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्तमः सर्गः ।


विशुद्धवर्णी विमलां गुणाढ्यां
 मालां मनोज्ञामिव कन्यकायाः ॥ १८ ॥

प्रस्थानमधैव कुरुष्व वीर !
 प्रष्टो भवामि प्रहतो हि पन्थाः ।
इति प्रतस्थे प्रथमं तपस्वी
 ततोऽपि चेतः प्रथमं नृपस्य ॥ १९ ॥

अथ प्रतापं प्रथयन् पृथिव्यां
 प्रसारयन् दिक्षु यशोमयूखान् ।
घनान्तरालादिव घर्मरोचिः
 सेनानिवेशान्निरगान्नरेन्द्रः ॥ २० ॥

तत्रैव सैन्यं सकलं निवेश्य
 सारं समाहत्य ययौ य [१]थार्हम् ।
सत्त्वाधिकानां हि सुनीतिभाजां
 पुंसामतन्त्रं परिवारसम्पत् ॥ २१ ॥

आनन्दयन् नाकजुषः स राजा
 वित्रासयन् विद्विषतां मनांसि ।
उत्कण्ठयन् वर्त्मनि नीलकण्ठान्
 ययौ घनध्वानभृता रथेन ॥ २२ ॥

अस्यानुकूलेन समीरणेन
 रथाङ्गनिष्पेषभवः परागः ।
दूरान्निरस्तः पथि दक्षिणेन
 नीचो ह्यचक्षुष्यतमः प्रभूणाम् ॥ २३ ॥


  1. 'र' ग पाठः.