त [१]थातिदुर्गं बहुवाहिनीकं
सुवर्णपूर्णं कटकं दधानम् ।
उत्तुङ्गवंशं हिमवन्तमारा-
न्महीभृतां नाथमसौ ददर्श ॥ २४ ॥
प्राच्यां प्रतीच्यां च निवेश्य पादौ
संदश्य गाढं शफरीमिवोर्वीम् ।
यः पक्षहीनोऽपि खमुत्पतिष्णु-
रब्धे[२]रुदग्रैः शिखरैर्विभाति ॥ २५ ॥
दिवापि नीलाश्मघनक्षपाणि
तिग्मांशुमार्गादुपरिस्थितानि ।
यस्योत्तमाङ्गानि सुराङ्गनाभि-
रङ्गीक्रियन्ते सुरतोत्सुकाभिः ॥ २६ ॥
आवर्तचक्राणि सरित्सु यस्य
संक्रान्तमाणिक्यमणिच्छवीनि ।
अलातचक्रप्रतिमानि शत्रोः
प्रत्यस्त्रशङ्कां जनयन्ति जिष्णोः ॥ २७ ॥
अन्यत्र य[३]स्माद् द्वितयं न दृष्ट-
मद्रौ न तादृग् गिरिराजशब्दः ।
जगज्जनन्यास्तनयात्वमेकं
जामातृभावश्च शशाङ्कमौलेः ॥ २८ ॥
गुञ्जाफलादानसमुत्सुकाभि-
रापातसाम्यादनुस[४]ञ्चितानि ।