खातः कियान् जात इतीव
मातुर्यो भाति तुङ्गः प्रतिमानकूटः ॥ ४० ॥
कुशेशयानां भवनेषु यत्र
कुशेशयानां निकटे मुनीनाम् ।
सरःस्वतीव प्रथते स्रवन्ती
सरस्वतीवाशु कवीश्वरेषु ॥ ४१ ॥
उद्धृत्य मूर्ध्ना सरिता सहस्र-
मादाय रत्नानि महाधनानि ।
उत्थाय शीतालुरिवाम्बुराशे-
र्यस्तापनं धाम दधाति पार्श्वे ॥ ४२ ॥
यत्र ध्वनिः श्रूयत एव नित्यं
वषट्पदानां नवषट्पदानाम् ।
सवे मुनीनां प्रसवे तरूणां
न वा रणानां घ[१]नवारणानाम् ॥ ४३ ॥
यः स्थातुमीष्टे परितो विरूढान्
सालानवष्टभ्य कथञ्चिदेव ।
अभ्रङ्कषाणां शिरसि स्थितानां
ग्राव्णां गरिम्णेव सुदुर्वहेण ॥ १४ ॥
समीरणाः सानुषु यस्य नित्यं
कुविन्दकृत्यानि विडम्बयन्ति ।
यतः पयोदावरणे विशीर्णे
पटं हिमान्या निबिडं वयन्ति ॥ ४५ ॥