उद्भ्रान्तचक्रं रथनुहन्तः
साशङ्कपातानि शफानि चक्रुः ॥ ५१ ॥
उच्चाधिरोहेषु विमुच्य रश्मीन्
निम्नावरोहेषु निगृह्य किञ्चित् ।
रथ्यान् कथञ्चिद् विनियम्य यन्ता
राजानमश्रान्ततनुं निनाय ॥ ५२ ॥
अथाश्रमोपान्तमुपेत्य राजा
गव्यूतिमात्रे सति मार्गशेषे ।
रथादवारुह्य ययौ पदाभ्यां
संभावयिष्यन्निव भूतधात्रीम् ॥ ५३ ॥
मा दुन्दुभिर्मा च सितातपत्रं
मा चामरे चेति कटाक्षदृष्ट्या ।
निवारयामास स राजचिह्नं
विनीतसेव्यं हि वनं मुनीनाम् ॥ ५४ ॥
नीवारशालिग्रहणोत्सुकेन
विकीर्यमाणं वयसां गणेन ।
आच्छिन्नमुक्तं कुशमन्तुकामैः
कुरङ्गशाबैचटुलैरुपेतम् ॥ ५५ ॥
आम्नायघोषप्रतिघोषपूर्णैः
शिलागृहैर्बृहितधीरनादम् ।
निर्दह्यमानाहुतिगन्धमिश्रै-
र्धूमैः परिस्तीर्णवितानबन्धम् ॥ ५६ ॥