अतः सुनीत्या स ययौ गुरुर्नः
स्वयं न दातुं न निषेधुमीष्टे ॥ १२ ॥
आवेद्य श्रुतिसुखमस्य कण्ववाक्यं
निर्याता निजनियमाय तापसास्ते ।
राजासौ गुरुगिरि गौरवादिवाज्ञां
बिभ्राणः सपदि विनम्रकन्धरोऽभूत् ॥ ६३ ॥
|
इति कृष्णविरचिते भरतचरिते सप्तमः सर्गः ॥
अथ नरपतिरन्तरुल्लसन्तीं
नवरसभावमनोहरां कुमारीम् ।
अनुपदमवमृष्टसद्गुणाढ्यां
कृतिमिव पत्रनिवेशितामपश्यत् ॥ १ ॥
निभृतमुटजकोटरे मुनीनां
स्मरशरपातभयादिव प्रपन्नाम् ।
किसलयशयने सखीसनाथा
श्रियमिव वारिजविष्टरे निषण्णाम् ॥ २ ॥
व्रणमिव कुसुमेषुमार्गणानां
हृदि सरसीरुहमाद्रमुद्दहन्तीम् ।
असकृदनुनिषेव्यमाणमाध्वी-
वचनसुधाभिरुदूढजीविताशाम् ॥ ३ ॥
जगति गुरुतरार्धरत्नसारां
परिचितपुण्यजनां श्रियं वहन्तीम् ।
|