अनवरतमुपोढराजहं [१]सं
धनदपुरीमिव मानसं दधानाम् ॥ ४ ॥
समजनि ममता नु तस्य काचि-
न्मनसि कृपा तु कृतार्थता नु जाता।
मनसिजचरितेषु विस्मयो वा
विरहकृशानुकृशां निशाम्य बालाम् ॥ ५ ॥
नयनयुगलमस्य पश्यतस्ता-
ममृतनिषिक्तमिवार्द्रतामवाप |
अपिच विरहशोकशङ्कुजालं
बहिरगलत् पुलकाङ्कुरच्छलेन ॥ ६ ॥
अवनतवदना शकुन्तलापि
क्षितिपमवेक्ष्य विवर्तितैः कटाक्षैः ।
न चलितुमशकन्न चापि वक्तुं
परिलिखितेव बभूव साध्वसेन ॥ ७ ॥
तदपि कृतसखीकरावलम्बा
करतलसंवृतपाण्डुगण्डरेखा ।
किसलय शयनात् कथं कथञ्चिद्
विरहमहादहनादिवोदतिष्ठत् ॥ ८ ॥
अथ करिकरकान्तिचौर्यनिघ्नं
नरपतिदण्डभयादिवायताक्ष्याः ।
अपि गुरुतरसारमूरुयुग्मं
चलदलपल्लवचापलं चकम्पे ॥ ९ ॥