मम हृदि पतितास्तुदन्ति गाढं
मनसिशयस्य शिलीमुखा इवान्ये ॥ १५ ॥
स्मरशरचकितं मनो मदीयं
त्वयि शरणार्थमिवावगाढमेतत् ।
पुनरपि परिदूयते नितान्तं
क्वनु खलु शाम्यति सर्पिषा कृशानुः ॥ १६ ॥
सुतनु ! तव मुखारविन्दमेतत्
कुचभरचक्रयुगं च मानसेऽस्मिन् ।
विकसति मम केन तन्निषेव्यं
न पुनरपुण्यजनेन चेतसापि ॥ १७ ॥
गुरुरपि मुनिरावयोर्हितार्थी
कमपि नियोज्य वनान्तरं जगाम ।
तदिह मम मुनीन्द्रवह्निशुद्धा
कनकमयीव भवाद्य कण्ठभूषा ॥ १८ ॥
इति नरपतिना समीरिता सा
न परमपत्रपया न किचिदूचे ।
अखिलमवनतानना तथापि
स्तनतटपातिभिरश्रुभिः शशंस ॥ १९ ॥
तदनु स विदि[१]तेङ्गि[२]तः कुमार्याः
स्फुटतरमात्मनि भावमाकलय्य ।
सहृदय इव सत्कृते[३]रनुक्तं
कमपि विशेषमसौ मुदं जगाम ॥ २० ॥