निजविभवविवृद्धमम्बुराशिं
सलिलधरा इव वृष्टिभिर्नवाभिः ॥ २६ ॥
तवनु दयितया तथा सहासौ
पटभवनेषु विशुद्धसंस्तरेषु ।
हर इव विजहार हैमवत्या
रजतमहीधरगहरोदरेषु ॥ २७ ॥
रविरिव नलिनीं निसर्गमुग्धां
मृदुलतरेण करेण मानवेन्द्रः ।
मुकुलितकमलेक्षणां नवोढा-
मनुसरणक्रमकौशलेन भेजे ॥ २८ ॥
अलिकमलयजानुलेपधूलिः
पतति तवाक्षणि किं न वारयिष्ये ।
इति स मुखसरोजमुन्नमय्य
क्षणविकचेक्षणमाचुचुम्ब तस्याः ॥ २९ ॥
मदनशर विभिन्नमेतदङ्गं
सुमुखि ! कुचोष्मणि तापयामि किं ते ।
इति घनममुना बिमर्दिताङ्गी
पुलकचयेन तथेति सा शशंस ॥ ३० ॥
अयमलसदृशः पपौ मनोज्ञा-
मधरसुधामिव यौवनाम्बुधाराम् ।
ह्रीयमिव शिथिलीचकार नीवीं
हृदयमिवांशुकमाचकर्ष तस्याः ॥ ३१ ॥