विरहविधुरयोर्यथा यथाभू-
न्मनसि पुरा स मनोरथप्रवाहः ।
अखिलमनुबभूवतुस्तथा तौ
कृतसुकृताविव कामिनौ स्वकामान् ॥ ३२ ॥
इति नृपतिरुवास मासमेकं
हरिणदृशा ह्यनु[१]रक्तयानुरक्तः ।
द्विप इव रसलोलया करिण्या
स्मरविशिखाङ्कुशवश्यतामुपेतः ॥ ३३ ॥
तदनु नरपतिर्जगाद जायां
मम हि वधूरघुना त्वमेव[२] भासि ।
तदिह निजपुरं नयाम्यहं त्वां
न खलु विना गृहिणीं गृहाः सुखाय ॥ ३४ ॥
इति नरपतिना समीरिता सा
विषमितकार्ययुगाकुला जगाद ।
नहि मुनिरिह दृश्यते पिता मे
तदनुमतिं कथमाप्नुयां न जाने ॥ ३५ ॥
मम गुरुसदनान्निवर्तनं[३] किं
तदनुमतेन विना नु युक्तमेतत् ।
भवदनुगमनं ममार्हमिष्टं
क्षममुचितं च ततो नियोक्ष्यसि त्वम् ॥ ३६ ॥
स पुनरकथयत् प्रसादय त्वं
मुनिमचिरेण नयाम्यहं पुरीं त्वाम् ।