प्रभवति हि सतामयं प्रसाद-
श्विरमुद[१]याय तथान्यथान्यथा स्यात् ॥ ३७ ॥
इति मुहुरनुनीय साश्रुकण्ठीं
निजनगरीं प्रति निर्ययौ नरेन्द्रः ।
कथमपि विवशां विनापि कान्तां
दिवसहतामिव चन्द्रिकां शशाङ्कः ॥ ३८ ॥
सरथ ( र ? ह)य ( प ? व) रः पुरीं प्रपेदे
विवृतकवाटदृशेव वीक्षमाणाम् ।
सकुतुकमिव पौरसुन्दरीणां
ध्वजपटपाणिपुटेन दर्शयन्तीम् ॥ ३९ ॥
अथ नरपतिसङ्गमानुरूपं
त्रिभुवनसारमधत्त गर्भमेषा ।
सलिलनिधिसमागमानुविद्धं
नवमिव मौक्तिकमम्बु ताम्रपणीं ॥ ४० ॥
सपदि मृगदृशः पयोधरौ तौ
जलघरमेचकचूचुकावभूताम् ।
असितपटपिधानगोपितार्थो
मणिकलशाविव राजभोगयोग्यौ ॥ ४१ ॥
स्फुटतरमुदरे शकुन्तलायाः
सुनिभृतमाशु विवेश दानवारिः ।
यदयमनुपदं विवर्धमानः
क्षणमपहृत्य बलिश्रियं जजृम्भे ॥ ४२ ॥