नरपतिविरहव्यथावती सा
न च किल दौहृदवेदनां धार ।
द्विरदवरवियोगदुःखिता किं
वनकरिणी कबलस्पृहां करोति ॥ ४३ ॥
मुनिरपि पुनरेत्य तां तनूजां
भरणकृतामपि वत्सलो नितान्तम् ।
चटुलगतिमवेक्ष्य जातसवां
निजतनयामिव जह्रुरभ्यनन्दत् ॥ ४४ ॥
शिशुमखिलनरेश्वरं विधास्यन्
मुनिरथ पुंसवनादि कर्म चके ।
विदधति परमाशिषोऽपि लक्ष्मी-
मतिमहतां किमुत स्वयंक्रियास्ताः ॥ ४५ ॥
नरपतिवचनं प्रतीक्षमाणा
प्रसवविलम्बमघत्त सा प्रसह्य ।
कथमपि च चिरादसूत पुत्रं
क्षितिवहनक्षममादिपोत्रिणीव ॥ ४६ ॥
उदयति विमले कुमारचन्द्रे
सपदि दिशः कुमुदोज्ज्वलाः प्रसेदुः ।
उपरि सुरपयोधिरेधमानः
कृतपटहध्वनिरुच्चकैर्ननर्त ॥ ४७ ॥
नरपतिरमुना समो न भूतो
न भवति नैव भविष्यतीति वाणी ।