मुनिजनमखभङ्गदुर्विनीतान्
दितितनयानवधीत्स मुष्टिघातैः ।
विनयनमसतां सतां च गुप्तिः
प्रकृतिरियं खलु पूरुवंशजा[१]नाम् ॥ ५४ ॥
दनुजवधकृताथ तस्य कीर्त्तिः
सुरपतिसद्मनि किन्नरोपगीता ।
नयनदशशत प्रमोदबाष्पैः
शिशिरयति स्म चिराय गोत्रशत्रोः ॥ ५५ ॥
मुनिरमुमुपनीय वेदविद्याः
स्वयमदिशत् सकलाः सहार्थशास्त्रैः ।
सकलमपि सशस्त्रमस्त्रजालं
कलितमनेन निजान्निजाधीशात् ॥ ५६ ॥
शकुन्तला कमितुरपत्यमर्पितं
सुखावहं तदिदमम॑स्तं मानिनी ।
अकृत्रिमा धनमिव कालवर्धितं
सनीविकं विबुधजनैकसाक्षिकम् ॥ ५७ ॥
|
इति कृष्णविरचिते भरतचरिते अष्टमः सर्गः ॥
अथ तां महिषीं महीभुज-
स्तनयान्दोलितपाणिपल्लवाम् ।
करिणीमिव पोतलोलितां
मुनिरूचे नयशालिनीं गिरम् ॥ १ ॥
|
- ↑ 'भाजाम्' ग. पाठ:.