पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
स्त्रीप्रशंसा

" स्याद्भ्रुवोललिताक्षेप एकस्या एकरेचितम् ।
द्वयोर्मूलसमक्षेपकौटिल्याद्भ्रुकुटिं विदुः ॥” इति ।

. स्निग्धाः स्नेहपरिप्लुता वाचश्च - स्नेहलक्षणं तु -

"विस्रम्मे परमां काष्ठामारूढे दर्शनादिभिः ।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥” इति।

लज्जितमन्तं येषान्ते लज्जितान्ता लज्जावसाना हासाश्च । तथा- भूतहासानामेव मोहनत्वात् - अन्यथा हास्यरसापर्यवसानादिति भावः। लीलामन्दं लीलामधुरं। प्रस्थितं प्रस्थानं गमनमिति यावत् । स्थितं अवस्थानं चेत्युभयत्रापि * भावे क्तः । इत्येतत्सर्वं स्त्रीणां भूषणं. च चातुर्यातिशयहेतुत्वात् । आयुधं शस्त्रं च युवजनविषयसाधनत्वादिति भावः ॥

 अत्र कटाक्षादीनां लक्षणानि प्रागेवोक्तानि। संचारिलीला शृङ्गारचेष्टा। भ्रुकुट्यादयोऽन्ये अनुभावा इति ज्ञेयम् ; तथा लीला- मन्थरगमनस्य पद्मिनीनियतलक्षणात्प्रायेणैतासां लज्जातिशयत्वं सूच्यते - तदुक्तं रतिरहस्ये ॥

"व्रजति मृदु सलीलं राजहंसीव तन्वी
त्रिवळिललितमध्या हंसवाणी सुवेषा ।
मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा
धवळकुसुमवासो वल्लभा पद्मिनी स्यात् ॥”

 अत्र भ्रुकुट्यादिसमुदाये भूषणत्वायुधत्वरूपणाद्रूपकालंकारः॥
शालिनीवृत्तम् ॥