पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
संभोगवर्णनम्


उरसि नि तितानां स्त्रस्तधम्मिल्लकानां
मुकुलित नयनानां किंचि दुन्मीलितानाम् ।
उपरि सुरतखेद खिन्न गंडस्थलानां
अधरमधु वधूनां भाग्यवन्तः पिबंति ॥२५

 व्या.----अथ यदुक्तम् नानाकरण कल्पितम्' इति । तत्र- नानाकरणानि धैनुकादि बन्धविशपाः तेषां मध्ये एक बन्धविशेषम् विविक्षु स्तदनुकूल मुपरि सुरतमाह- उरसीति.-उरसि निपतितानां पुरुषायित वन्धवशा द्वक्षःस्थलमधिष्ठितानाम् । अत एव स्त्रस्तधम्मिल्ल- कानां रति रभस विश्लथकचप्रचयानाम-नि, 'धम्मिल्लः संयताः कचा:' इत्यमरः । मुकुलित नयनानां मुखपारवश्यालज्जानुभावानुकरणा द्वा विनिमीलि तलोचनानाम्। तथाऽपि किञ्चिदुल्मीलितानां ईषन्मुकुलि- तलोचनानाम् - अन्यथा अनौचित्यादिति भावः । अत एव उपरिसुरते यः-खेदः श्रम-स्तेन स्विन्नानि स्वदाद्रीणि - गण्डस्थलानि यासा तासाम् - ' श्रमः खेदो हि रत्यादे जर्जातः खेदादिभूमिकृत्' इति लक्षणात् । वधूनां प्रियतमानां संबन्धि । अधरमधु अधरामृतं । भाग्यवन्तः भाग्यशालिनः । पिबन्ति । स्त्रीमुखस्य निजमुखसाम्मु - ख्यादलेशेनाधरं चुम्बन्तीत्यर्थः । एतच पुण्यकृतामेव संभवति - न त्वन्येषा मत एव भाग्यवन्त इत्युक्तम् ; तथा बाह्यसुरतविशेष- रूपमपि चुम्बन मारभ्यान्तराङ्गतया कथित मित्यवगन्तव्यम् ।।  पुरुषायितलक्षणमुक्तं रतिरहस्ये.---  स्वेच्छया श्रमिणि वल्लभे तथा योषि दाधरति पूरुषायितम्' इति ॥  नायिकास्तु प्रगल्भा:.--