पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
नीतिशतके

च्याप्तम्। लालाक्लिन्नं वसापूरार्द्रं - यद्वा - लाला सृणीका दन्तान्त- जेलमिति यावत् - नि-'सृणीकास्यन्दिनीलाले'त्यमरः - तया क्लिन्नं खादनसमये तस्यास्तत्र स्त्रवणादिति भावः । विगन्धि दुर्गन्धि - अत्र विशब्दस्य पूतिपोयत्वविवक्षायाम् । 'गन्धस्ये' त्यादिना समा- सान्त इकारोऽन्तादेशः - यद्वा - विगन्ध आमगन्धोऽस्यास्तीति विगन्धि । अत एव । जुगुप्सितं हेयम् । तदपि । निरामिषं मांस- लेशशून्यम् । तदपि । खरास्थि रासभकीकसम् । निरुपमः - उप- मानरहितो - यो रसः स्वादः - तत्र या - प्रीतिः प्रेमतया। खाद- न्भक्षयन्पार्श्वस्थमन्तिकस्थं - 'सुपिस्थ' इति के प्रत्ययः। सुरपति- मिन्द्रमपि - किमुतान्यमिति भावः । विलोक्य । न शङ्कते न लज्जते । तथाहि - क्षुद्रो जन्तुः नीचजन्तुः - परिग्रहे स्वीकृतवस्तुनि - फल्गुतां तुच्छत्वम्। न गणयति न मनुत इत्यर्थः । जुगुप्सितकर्माचरण- तत्परो मूर्योऽप्येवं न महद्विगर्हणाद्विभतीति भावः। नि-पत्नी परिजनादानमूलशापाः परिग्रहाः” इत्यमरः । 'फल्गु तुच्छमसारं चे' ति यादवश्च ।।

 अत्राप्रस्तुतवृत्तान्तकथनात् प्रस्तुतमूर्खजनवृत्तप्रतीतेरप्रस्तुत- प्रशंसालंकारः॥

“ अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥"

इति लक्षणात् हरिणीवृत्तं - "भवति हरिणीन्सौ म्त्रौ स्लो गो रसा- म्बुधिविष्टपैः" इति लक्षणात् ।।