पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
मूर्खपद्धतिः

शिरश्शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तङ्गादवनिमवनेश्चापि जलधिम् ।
अधो गङ्गा सेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥

 व्या.- अथाविवेकस्यानर्यादिधनद्वारा विवेकस्यावश्यकत्वं प्रदर्शयति - शिर इति.-अत्रोत्तरवाक्ये तच्छब्दस्य विद्यमानत्वा- द्यच्छब्दोऽध्यार्तव्यः- यत्तदोर्नित्यसंबन्धात् - उत्तरवाक्यस्थयच्छब्द- स्यैव पूर्ववाक्यतच्छब्दानपेक्षितत्वनियमात् । तथा च या गङ्गा स्वर्लोकात्। शर्वस्येदं शार्वमैश्वरं - नि-'ईश्वरश्शर्व ईशान' द्यत्यमरः - तस्येदमित्यण्ग्रत्ययः। शिरशीर्षमुपगतेति सर्वत्रानुषज्यते। प्रथमत इति शेषः । तदनु। पशुपतश्शर्वस्य - शिरस्तइशीर्षात् - पञ्चम्यास्तसिल् । धरतीति धरः - पघाद्यच् - क्षित्याः धरः क्षिति- धरः - तं हिमवन्त मुपगता । महीं धरतीति महीध्रः - मूलविभु- जादित्वात्क प्रत्ययः - यथाह-वामनः " महीध्रदयो मूलविमुजादि- दर्शनादि "ति - अत एव - नि---" महीध्र शिखरि क्ष्माभृदि" त्याद्यमरः। उत्तुङ्गादुन्नतान्महीघ्राद्धिमवदाख्यक्षितिधरादत्रनिं भुव- मुपगता। अवनेश्चापि । जलधिं समुद्रमुपगता -'नदीनां सागरो गतिरिति गङ्गा सागरपूरणी' ति वचनादिति भावः । अथो अनन्तरं - नि-"मङ्गळान्तरारम्भप्रश्नकालर्चेष्वथो अथे "त्यमरः - सेयं परिदृश्यमाना गङ्गा मन्दाकिनी । स्तोकमल्पं परिमितमिति यावत् । पदं स्थानम्। उपगता प्राप्ता। यद्वा - अधः उक्तप्रकारेणाधःप्रदेशे - पाताळे वा - पदमिति योजना - अथवा तथाहीत्यर्थः - पक्षान्तरे