पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
शृङ्गारशतके


 अत्र कन्दर्पदर्पेति सकृव्द्यञ्जनद्वयावृत्तेः छेकानुप्रासाख्यशब्दा- लङ्कारः ॥ वसन्ततिलकावृत्तम् ॥

सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते .
यावल्लीलावतीनां न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ।।

व्या.=-अथ च पुनर्वचनवैचित्रीमेवाह - सदिति----नरः - विद्वानपीति भाषः - सन्मार्गे श्रुतिस्मृतिबोधिताचारे। तावत्तावत्प- र्यन्तमेवास्तं वर्तते इन्द्रियाणां चक्षुरादीनां च तावदेव प्रभवति समर्थो भवति - नियमन इति शेषः । लज्जां जुगुप्सितकर्माचरणाच्चे - तस्संकोचलक्षणां व्रीडां च। तावदेव। विधत्ते अनुवर्तते । विनयं नम्रत्वं च। तावदेव समालम्बते स्वीकुरुते। कियत्पर्यन्तमित्याशङ्का - यामाह- भ्रूरेव चापं कार्मुकं - तेनाकृष्टाश्च ते मुक्ताश्चेति विशेषणस - मासः - एकत्र भ्रमपूर्वकमपरत्र चापनमनपूर्वकं च प्रयुक्ता इत्यर्थ:- श्रवणपथगताः श्रोत्रमार्गगताः - एकत्रकर्णान्तविश्रान्तत्वादपरत्र तावत्पर्यन्तमाकर्षणाच्चेति भावः । नीलानि पक्ष्माणि लोमान्यन्यत्र गरु- तश्च येषां ते तथोक्ताः।धृति मुष्णन्तीति धृतिमुषो धैर्यभेदिन गते प्रसिद्धाः लीलावतीनां । विलासिनीनां । दृष्टय एव बाणा: । यावद्या- वत्पर्यन्तं । हदि मानसे वक्षसि । न पतन्ति तावदिति संबन्धः तदनन्तरं सन्मार्गप्रवर्तनादिकं निर्वोढुं कस्समर्थ इति भावः - उक्तं च प्रबोधचन्द्रोदये -