पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
शृङ्गारशतके


 अत्र खलेकपोतन्यायाद्दयितादिबहुकारणानां हृदयरञ्जनरूपैक- कार्यसाधनसमुद्योगकथनाद्द्वितीयस्समुच्चयाऽलङ्कारः - तदुक्तं विद्या नाथेन - खले कपोतन्यायेन बहूनां कार्यसाधने ।' कारणानां समुद्योगस्सद्वितीय स्समुच्चयः ॥' इति ।। शार्दूल विक्रीडितम् ॥

पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अल्पास्ते नवपाटलापरिमलप्राग्भारमाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ८४

 व्या.--पान्थस्त्रीति.-अधुनेदानीम् वसन्तसमय इत्यर्थः । पान्थस्त्रिणां प्रोषितभर्तृकाणां । विरहानलस्य वियोगाग्नेः - आहुतिकलां आहुतिकलनाम् तत्साम्यमित्यर्थः . ' कलाशिल्पे कालभेदे चन्द्रांशे कलना कला' इति वैजयन्ती । आतन्वती आदधाना तद्वदुद्दीपिके - त्यर्थः - तनोतेश्शतरि * 'उगितश्चे' ति ङीप्। माकन्देषु रसालविशेषे षु-विद्यमानेति शेषः । मञ्जरी । पुष्पमञ्जरी । पिकाङ्गनाभिः कोकि - लाभिः । सोत्कण्ठमालोक्यते सानन्दमुद्वीक्ष्यते - इष्टत्वादिति भावः। तथा पाटला फलेरुहाख्यवृक्षविशेषः - नि. पाटलि: पाटला माघा कावस्थाली फलेरुहे' त्यमरः * 'पुष्पमूलेषु बहुलम्' इति लुपि.. युक्तवद्युक्तिवचने भवतः - नवपाटलापरिमलप्राग्भारस्य नूतनपाटे कुसुमगन्धसंपत्तेः - पाटच्चरा मलिम्लुचाः तद्गन्धापहारिण इत्यर्थः । तथा क्लान्तिवितानस्य क्लान्तिसमूहस्य - तानवं तनुत्वं - कुर्वन्तीति