पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
ऋतुवर्णनपद्धतिः

इत्युक्तलक्षणः कान्त इवाघरति - उक्तविशेषणैः कान्तसादृश्यलाभात्स इव वर्तत इत्यर्थः । 'उपमानादाचार' इति क्याङ् है अकृन्सार्वधातुकयोः ।।

 अतएवोपमा - सा च प्रायश्शब्दादिव्यञ्जितोत्प्रेक्षया संकीयते - तदुक्तमाचार्थदण्डिना -

'मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः ॥' इति ।।
शार्दूलविक्रीडितम् ॥

इति शृङ्गारशतके ऋनुवर्णनपद्धतिः संपूर्णा ॥