पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
वैराग्यशतके

अत्र मांसग्रन्थित्वेन स्तनयोमर्दनानर्हत्वं । श्रेष्मागारत्वेन मुखस्य चुम्बनाद्ययोग्यत्वं । स्रवन्मूत्रश्लिन्नत्वेन जघनस्य हेयतया संभोगापा- त्रत्वं च सूचितम् ।। एतत्कृत एव कामिनीनां संभोगास्पदत्वेनाभि मतत्वम् - इदमेवत्थं जुगुप्सितत्वेन दूषितं चेत्तर्हि किमन्यत्कामि • न्यां भोगयोग्यमस्तीति श्लोकतात्पर्यम् - तदुक्तं -

 'हासोऽस्थिसंदर्शनमक्षियुग्ममत्युजलं तत्कलुषं वसायाः। स्तनौ च पीनौ पिशितास्नपिण्डौ स्थानान्तरे किं नरको नः योषित् ?' इति शिखरिणी ॥

एको रागिषु राजते प्रियतमा देहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः।
दुर्वारस्मरवाणपन्नगवि.व्याविद्धमुग्धो जन-
श्शेषः कामविडंबितान्न विषयान् भोक्तुं न मोक्तुं क्षमः ।।

 व्या.--अथैकः परमेश्वर एवैकान्ततोऽनुरक्तो विरक्तश्च अन्य- स्तु तथाऽननुरक्तत्वादविरक्तत्वाच्च परिक्लिष्ट एवेत्याह-एक इति.-प्रिय- तमायाः पार्वत्या:-देहस्य शरीरस्य- अर्धम् अर्धभागम् ४ अर्धं नपुंसक मिति समास:- तद्धरतीति तथोक्तः - महाकामुकतया क्षणमात्रवि - श्लेषस्याप्यसहिष्णुत्वान्निजदेहवामार्धपरिक्लुप्तप्रियतम इत्यर्थः - वामा र्धधारीति च पाठः । एक एव हरो । रागिष्वनुरक्तेषु - कामुकष्वि- त्यर्थः । राजते अप्रतिनिधित्वेन प्रकाशते - तादृशकामुकान्तरस्यानुप . ' लभ्यमानत्वादिति भावः । तथा। नीरागेषु विरक्तेष्वपि । विमुक्त स्त्यक्तो - ललनासङ्गो योषिदासक्तिर्येन स तथोक्तो। जनः वैरा - ग्यपुरुषो । यस्माद्धरात् । परोऽन्यो। नास्ति-तपश्चरणसमये मदन -