पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
विषयपरित्यागविडंबनम्

दहनादिना तादृग्वैराग्यप्रकटनात्तथाविधविरक्तो न कश्चिदस्तीत्यर्थः । किंतु। दुर्वारा: निवारयितुमशक्याः - स्मरबाणा एव - पन्नगास्स- र्पा-स्तेष विषण गरळेन - तत्सदृशेन व्यामोहेन च - व्याविद्धो व्याक्षिप्तः - अतएव - मुग्धो मूढो निश्चेष्टश्च शेषः अवशिष्टः । जनः। कामेन मन्मथेन हेतुना - विडम्बिताननुकृतान् - स्वीकृतानिति यावत् । विषयान् स्त्रीसंभोगादीन् । भोक्तुमनुभवितुं वा । मोक्तुं त्यक्तुं वा। न क्षमः तादृगनुरागविरागोत्कर्षाभावात्तथा विधभोग - त्यागयोरसमर्थ इत्यर्थः ; कर्तुमकर्तुमन्यथा कर्तुं समर्थः परमेश्वर - एक एवानुरक्तेषु विरक्तेषु च परां काष्टां प्राप्तस्तदन्यस्सर्वोऽप्युभय भ्रष्टएवेति भावः ॥ स्मरबाणपन्नगेत्यत्र रूपकालंकारः ।। शार्दूल - विक्रीडितम् ॥

अजानन्दाहात्म्यं पततु शलभस्त्रीव्रदहने
स मीनोऽप्यज्ञानाद्वडिशयुत मश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिला-
न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ १८

 व्या... अथ विषयदोषपरिज्ञानेऽप्यत्यागे कारणमा - अजा नन्निति - शलभः पतङ्गः। दह्यते अनेनेति दाहः ॐ करणे घञ् - तस्य आत्मनः स्वभावस्य भावो दाहात्म्यं भस्मीकरणस्वाभाव्य- मित्यर्थः - नि. आत्मा देहे धृतौ जीवे स्वभावे परमात्मनी 'ति विश्वः । अजानन् अनवबुध्यन् । तीव्रदहने जाज्वल्यमानाग्नौ । पततु प्रविशतु - प्रविश्य भस्मीभवत्वित्यर्थः ॐ संभावनायां लोट् । तथा । स प्रसिद्धो। मीनो मत्स्योऽपि। अज्ञानादात्मविनाशकारण मेतदित्य-