पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
याच्यादैन्यदूषणम्

श्रेयस्संपादकं वनं ब्रज ; वनवास एवावश्यं कर्तव्य इति तात्पर्यम्॥ शार्दूल वित्रीडितम् ॥

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयस्स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७

 व्या...---अथ च पुनस्सत्यामपि निरवधिक निरातङ्कजीवन - साधनसामग्र्यां कृपणाः स्वकार्पण्य मत्यजन्तः परयाच्ञादैन्येन क्लिश्यन्ति । किं कर्तव्यमित्याह - फलमिति.-वने वने प्रतिवनं-वने वने न त्वेकत्रैवः क्लृप्तमित्यर्थः अव्ययं विनक्ती' त्यादिना यथार्थेs व्ययीभावः । न विद्यते खेदो यस्मिन्कर्मणि तद्यथा तथा अखेद मक्लेशं। स्वेच्छया स्वच्छन्देन - लभ्यं प्राप्यं - न तु परप्रेष्यमिति भावः । क्षिप्रा रोहन्तीति क्षितिरुहः क्लिप्। तेषां कदलीरसालपनसादि- तरूणां फलमस्तीति शेषः उदरपूरणपर्याप्तमिति भावः । तथा। स्थाने स्थाने प्रतिस्थानं * वीप्सायां द्विरुक्तिः । शिशिर - मधुरं - व्याख्यातमेतत् पिबति सलिलं शीतमधुरमि' त्यत्र । पुण्यसरितां - गङ्गागोदावर्यादिपुण्यनदीनां । पयस्तीर्थ । अस्तीति शेषः - स्नानपानाभ्यां बाह्याभ्यन्तरपङ्कप्रक्षालनद्वारा तृष्णापेशान्ति - करमिति भावः । एतेनोभयेषामपि शास्त्रसिद्धं परोपकारकत्वं सूचितं- तदुक्तं - 'परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्य' इति । तथा । मृदुः अकठिन: - कोमल इति यावत् - स्पर्शो यस्या- स्सा हंसतूलिकातल्पकल्पेत्यर्थः । कुतः सुललितान्यतिकोमलानि-