पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
वैराग्यशतके

प्रतिदिनं। तत्रापि चाप्रयत्नं यत्नं विनैव - सुलभं सुखलभ्य- मित्यर्थः । साधूनामनहंकारिणां - प्रियमिष्टं - पावनं पवित्र शंभो- शिशवस्य। सत्त्रं तृप्तिसाधनमित्यर्थः - रुद्रो येन कपालपाणिपुटके भिक्षाटन सेवते' इत्यनेनैवोक्तत्वात् - यद्वा शंभोस्सत्त्रं शंभुभक्ति- निरतान्नसत्त्रमित्यर्थः - खण्डमण्डलाधिपतिसत्त्रं तु नश्वरं इदं तु सकलभुवनाधीश्वरप्रवर्तितस्त्राच्छाश्वतमिति भावः । अत एवावार्यं न केनाऽपि निवारयितुं शक्यम्। अक्षयनिधिविनाशि निधानं च - नित्योपयोगेऽपिक्षयाभावादिति भावः । शंसन्ति कथयन्ति अनुभव- सिद्धत्वादित्थं वर्णयन्तीत्यर्थः ; अतोऽनर्थपरम्पराजनितदैन्यं या- च़्ञादैन्यं विहायोक्तरीत्या समस्त सद्गुण विचित्रं शंभुसत्त्रं प्रामाणि- कोक्तं समाश्रयणीयमिति भावः ॥ वृत्तं पूर्ववत् ॥

इति वैराग्यशतके याच्ञादैन्यदूषणं सम्पूर्णम् ।।

॥ भोगास्थैर्यवर्णनम् ॥

भोगे रोगभये कुले च्युतिमयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं,
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ।। ३१

 व्या...--अथ भोगानामस्थैर्याकथने याच्ञादैन्यमदूषितप्राय मेवेति मनसि निधाय तद्दूषणानन्तरं भोगास्थैर्यमाह - भोगइति- भोगे स्रक्चन्दनवनितासंभोगसुखानुभवे - नि. : भोगस्सुखेस्च्यादि- भृत्वहेश्च फणकाययोरि'त्यमरः । रोगाद्वात्तपित्ताद्यामयाद्भयमस्तीति