पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
भोगास्थैर्यवर्णनम्


रति स्वविनिपातहेतुभूतमेव कर्म करोति - न त्वात्मोद्धरणार्थं ब्रह्म - ध्यानादि करतीत्यर्थः । चित्रमाश्चर्य - तदुक्तं गीतासु -

'उद्धरेदात्मनाऽऽत्मानं नात्मान मवसादयेत् ।
आत्मैव ह्यात्मनो बन्धु रात्मैव रिपुरात्मनः
॥ इति

  • तर्जयन्तीत्यत्र तर्जयतेः परस्मैपदं - तर्जयन्निव केतुभि-

रि' त्यादिमहाकविप्रयोगासिद्धं - तर्जयते रनुदात्तेक्वेऽपि चक्षिको डित्करणेन अनुदात्तेवनिमित्तस्यात्मनेपदस्थानित्यत्वज्ञापनास्परस्मै पदमिति । उपमा वसन्ततिलकावृत्तम् ।।

भागा भङ्गरवृत्तयो बहुविधास्तैरेव चाय भव-
स्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितः ।
आशापाशशतोपशान्तिविशदं चेतस्साधीयता

कामोत्पत्तिवशात् स्वधामनि यदि श्रद्धेय मस्मद्वचः}}।।३९

 व्या.---अथ सर्वथा यद्यस्मदुपदेशे विश्वासस्तहात्मन्येव । मनस्समाधेय न त्वन्यत्रेत्याह - भोगा इति.–भोगाः । विषयाः भङ्गरा भङ्गशीला वृत्तिर्येषां ते तथोक्ताः आगमापायित्वादस्थिरा इत्यर्थः। बहुविधाः नानाप्रकाराश्च • कारणवैचित्र्यपूर्वकत्वात्कार्य - वैचित्र्या इति भावः । अस्तु ततः किं ? तबाह - तै गैरेवायं परि . वर्तमानो। भवः । शरीरधारणादिसंसारः । कल्पित इति शेषः - जन्मान्तरीयकत्वान्तस्येति भावः-'भोगायतनं शरीरमिति वैशेषिका:- तत्तस्मात्कारणात् । रे लोका जनाः । इहान भवे । कस्य कृते - कस्य भोगस्य प्राप्त्यर्थमित्यर्थः - अर्थ कृते च शब्दो द्वौ तादयेंs 17