पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
कालमहिमानुवर्णनम्


गतदिवससदृश एवेत्यर्थः - पूर्ववद्विकल्पोऽत्राऽप्युन्नेयः। इति मत्वा बुद्धाऽपि। जन्तवः प्राणिनः उद्यमिनः तत्तदर्थसाधनोद्योगवन्तः । तथैव, निभृतं निगूढं परेषामप्रकाशमिति यावत् - प्रारब्धा उपक्रा- न्तास्तत्तक्रियास्तत्तदर्थसाधककर्माणि - येषां ते तथोक्ताश्च सन्तः । पुनरुक्तभूताः पुनःपुनरनुभूतकल्पाश्चर्वितचर्वण प्राया इति यावत् - तथाभूता विपया; जन्धियब्ध्यादिभोगा येषु तै र्व्यापारैश्वेटामिः । मुधा व्यर्थ । धावन्ति - पृथाप्रयासमन्तरेण फलान्तरसंभवादिति भावः । किं त्वित्थं विधेनैवं प्रकारेणामुना परिवर्तमानेन। संसारेण कुत्सितोऽर्थः कदर्थः ? को: कत्तत्पुरुषेचे 'ति कुशब्दस्य कदादेशः कदर्थवन्तः कृताः कदर्थीकृताः हीना कृता अपि * कदर्थशब्दा- 'त्तत्करोतीति ण्यन्ताकर्मणि क्तः ॐ णाविष्टद्भावे विन्मतोर्लुक् । वयं । मोहादज्ञानान्न लजामहा न जिह्रीमः। अहो एवं कालमहिम्ना निस्सार्य तिरस्कृता अपि लज्जां न प्राप्नुम इत्याश्चर्यमित्यर्थः ।।

न ध्यातं पदवीधरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकवाटपाटनपटु र्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गिन्तं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम्
॥ ४५

 व्या..-अथ लोके तावत्पुरुषाणां धर्मार्थकाममोक्षरूपचतु- र्विधपुरुषार्थसंपादनसाधनीभूततया परमेश्वरपदध्यानेज्याध्ययनयशो- वित्तार्जन गुरुशुश्रूषाङ्गनालिङ्गनादयो यथायोगं विधेयाः। अस्मा- भिस्तु तेषां मध्ये न कश्चिदपि विरचितः। अतोऽस्मजन्मनिरर्थक- मिव जातमिति वारं वारं शोचतां वचनमभिनीयाह - न ध्यातमि-