र्नमस्कुर्वाणैः कैश्चित्कतिपयैरेव नृभिर्मनुष्यैः * हेतौ तृतीया-अथवा-
नमाद्भिःपुंसां नरवरमन्यानां राज्ञामयं परिदृश्यमानः। अतुलो
निस्सीमो - यो दपों मद - स्स एव ज्वरभरो ज्वरोद्रेक: - अपभ्रं -
शहेतुत्वात् । कः किमर्थमित्यर्थः । मरणानन्तरेऽपि यस्य शिरः
आदरपूर्वकं महदुपादेयं भवति स एव सफलजन्मा पुरुषोत्तमश्च -
अन्य स्सर्वोऽपि निष्फलजन्मा पुरुषाधमश्चेति भावः ।।
इति वैराग्यशतके यतिनृपतिसंवादवर्णनं संपूर्णम् ।।
॥ मनस्संबोधननियमनम् ॥
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदयक्लेश कलितम् ।
प्रसन्ने वन्यन्तस्स्वयमुदितचिन्तामणिगणों
विविक्तस्संकल्पः किनभिलषितं पुष्यति न ते॥ ६१
व्या..~~-अथ मनोनियमनदक्षस्यैव यतित्वात्तत्प्रसङ्गानन्तरं मनस्संबोधनपूर्वकं तन्नियमनप्रकारमाह - परेषाभिति..---हे हृदय । प्रतिदिवसमनुदिनं । बहुधा बहुप्रकारैः प्रकारवचनेथाल् (१)। परेषां चेतांसि आराध्य प्रसाद्य - तत्कालोचितानुवर्तनै रून्मुखीकृत्ये- त्यर्थः । क्लेशेनातिप्रयासेन । कलितं संपादितं । प्रसादमनुग्रहं नेतुं
- प्रापयितुं - मनांस्येवेत्यर्थः * नयतेः द्विकर्मकात्तुमुन् प्रत्ययः।
विशसि किं प्रवर्तसे किमित्यर्थः। अथ यथा कथंचित्परचित्तप्रसादने नाभिलषितं साधयिष्यामि - अतः किमर्थमेवं निषिध्यत इत्यत आह - प्रसन्न इति.--त्वयि । अन्तरभ्यन्तरे । प्रसन्ने समाहिते