पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ नित्यानित्यवस्तुविधारः ॥

किं वेदैः स्मृतिभिः पुराणपठनैश्शास्त्रै र्महाविस्तरै
स्वर्गग्रामकुटीनिवास फलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ ७१

 व्या..-अथ वेदाध्ययनस्मृतिपर्यालोचनशास्त्रपठनपुराण - श्रवणादिभिर्न कोऽपि लामः - किंतु विचारात् श्रवणमनननिदिध्या- न्मनादिभिरात्मानुभव एव लाभ इति मत्वा जनानुद्दिश्य बोधयति - ' किं वैदै' रिति श्लोकेन - किमिति..--वैदैः ऋग्यजुस्सामाथर्वण - संक्षकैः चतुर्भिर्वेदैः । किं किं प्रयोजनं? न किमपि प्रयोजनमित्यर्थः । स्मृतिभिः मन्वाद्याष्टादश स्मृतिभि रुपस्मृतिभिश्च । किं प्रयोजनं? न किमपीत्यर्थः । पुराणपठनैः ब्रह्माण्डपुराणाद्यष्टादशपुराणोपपुराणपठ नैश्च। न किमपीत्यर्थः । महाविस्तरैः अतिविस्तृतैः । शास्त्रैः तर्कव्या करणादिषड्दर्शनैः किम् ? न किमपीत्यर्थः । स्वर्ग सर्वपुण्यकृन्निवासे नाकलोके च -ग्रामेषु ब्राह्मणप्रधानवर्णानां निवासेषु-कुटीषु पर्णगृहेषु- वः निवासः तेन फलदैः फलप्रदैः कर्मणां स्नानसंध्यावन्दनौपासन- यज्ञादीनां - क्रियाभिः व्यापारैः - विभ्रभैश्च । न किमपि प्रयोजन - मित्यर्थः । भवात् जननमरणरूपसंसारात् यद्दुःखं दारिद्रयभार्या- पुत्रादिनाशादि-तस्य - भारः असह्यातिशयः तस्य रचना कलना - तस्याः - विध्वंसः नाशः तस्य कालानलं प्रळयाग्रिरूपं । स्वस्य- आत्मानन्दः आत्मसुखानुभवः तस्य पदं स्थानं तस्मिन