पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
नित्यानित्यवस्तुविचारः


का कथा न काऽपीत्यर्थः ; यतोऽत्यन्तस्थिरतराणामपि ईदृश्यवस्था किमुतक्षणभङ्गुराणां शरीराणां - 'गजा यत्र न गण्यन्ते मशकानां तु कावथे ति न्यायादिति भावः। सर्वेऽपि नश्वरा एव ततोऽप्यति - 'नश्वरं शरीरमिति तात्पर्यम् ; करिकलभेत्यन्न करिशब्दस्य विशेषप्रति- पत्तिहेतोर्वैशेष्यप्रतीत्यर्थत्वादपौनरुक्त्यम् ; अत ए वैकार्थं पदप्रयो- ज्यमि' त्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष' इत्याह वामनः ॥

गात्रं संकुचितं गतिर्विगळिता भ्रष्टा च दन्तावळि-
र्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च च लालायते ।
' वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते.
हा ! कष्टं ! पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ७३

 व्या.--अथ शरीरिणो जरया दुरवस्थामाह - द्वाभ्यां गात्र- मिति.---गात्रं शरीरं । सङ्कुचितं भुग्नमभूदिति शेषः । गतिसंचा- रोऽपि गळितः संचारशक्तिरपि नष्टेत्यर्थः । दन्तावळिर्दन्तपक्ति श्व । भ्रष्टा पतिता । दृष्टिश्चक्षुरिन्द्रियं च । नश्यति अर्थग्रहणापटु - भवतीत्यर्थः । बधिरता श्रोत्रेन्द्रियापाटवं। वर्धते वृद्धि प्राप्नोति । वक्त्रं च लाला दन्तान्तर्गतजलं - लालेवाचरति लालायते - लालामयं भवतीत्यर्थः - नि, 'सृणिका स्यन्दिनीलाले' त्यमरः। तथा बन्धव एव बान्धवाः स्वार्थेऽण्प्रत्ययः - त एव जनो बन्धुवर्गश्च । वाक्यं - वचनं । नाद्रियते न रोचयत इत्यर्थः । कि बहुना । भार्याऽपि । न सेवते - यद्वा - सेवितुं नेच्छति - सेवा दूरापास्तेति भावः । अतः । जीर्णवयसो जरावस्थासंपन्नस्य पुरुषस्य । हेति विषादे । कष्ट कृच्छ्रं।