पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
शिवार्चनम्


चैतन्यत्वेन तथाभूतत्वादिति भावः - यद्वा - जगन्त्यन्तरात्मनि यस्य- तस्मिन् तथेक्ते - कुक्षिस्थाखिलभुवन इत्यर्थः । जनानर्देयतीति जना- र्दने, विष्णौ वा । मे मम । वस्तुभेद प्रतिपत्तिः अयं महेश्वरोऽयं जना र्दन इति वस्तुगोचर भेदबुद्धि र्नास्ति - 'शिवाय विष्णुरूपा ये' स्यादिना तयोर्वस्तुतो भेदाभावा दिति भावः । तथापि भेदप्रतिपत्त्य भावेऽपि । तरुणेन्दु शेखरः शिरोभूषणं यस्य तस्मिन् शिवे । भक्तिः भजनानुरागोऽस्तीति शेषः - अतएव नान्या गतिरित्युक्तमिति • भावः। इदं च स्वभावो दुरतिक्रम' इति न्यायादि त्यवगन्तव्यम् । वंश - स्थवृत्तम् - 'जतौ तु वंशस्थ मुदीरितं जरा वि' ति लक्षणात् ।।

स्फुरत् स्फारज्योत्स्नाधवळिततले काऽपि पुलिने
सुखासीनाशान्तध्वनिषु रजनीषु धुसरितः ।
भवाभोगोद्विग्नाशिव शिव शिव शिवेत्युच्चवचसः
कदा यास्यामाऽन्तर्गतबहुलवाष्पाकुलदशाम् ॥ ८५

 व्या.-अथ स्थायिन श्शमस्योदयवशाच्छान्तरसाभिव्यञ्जकवा- क्यान्याह पञ्चभिः - स्फुरत् स्फारज्योत्स्नेति---शान्ता उपरता: - ध्वनयः पक्षिमृगादिकतानि-यासु तासु तथोक्तासु-एतेन चित्तविक्षेपहेतु राहित्यं सूच्यते। रजनीषु रात्रिषु । स्फुरन्ती प्रकाशमाना - स्फारा प्रवृद्धा च - या ज्योत्स्ना चन्द्रिका - तया - धवळितं पाण्डरीकृतं - तलं प्रेदेशो - यस्य तस्मिन् । काऽपि कस्मिंश्चित् । धुसरितो गङ्गायास्सं - बन्धिनि । पुलिने सैकते। सुखं यथा तथा - आसीना उपविष्टास्सन्तः भवाभोगात्संसारविस्तारादुद्विग्राः विह्वला: - दुःखजनकत्वादिति- भावः । वयमिति शेषः । अतश्शिवत्यादित्रिवार । मुच्चानि ताराणि -