स्तथोक्ता स्त्रियामाः रात्रीः नेष्यामो गमयिष्यामः । कदेति शेषः।
द्वयोः प्रथमवरमयामार्धयोर्दिनव्यवहारात् त्रयो यामा यस्यास्सा -
त्रियाति स्वामी ॥
कदा वाराणस्थाममरतटिनीरोधसि वसन्
वसानः कौपीने शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शम्भो ! त्रिनयन !
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८७
व्या.----कदेति.----कदा कस्मिन्वा काले । धाराणस्यां काश्याममरतटिनीरोघसि गङ्गातीरे । वसन् तिष्ठन् । तथा । कौपीनं गुह्याच्छादनचेलखण्डं । वसानः आच्छादयन् - लोकविरोधपरि - हारार्थं तावन्मात्रपरिग्रह एव न तु परिग्रहान्तरापेक्ष इत्यर्थः । 'वस आच्छादन' इति धातोश्शानच् । शिरस्यञ्जलिपुटं कर - संपुटं । निधानस्सन् । अये भोः । गौरीनाथ पार्वतीपते । त्रयाणां पुराणां समाहारस्त्रिपुरं पात्रादित्वान्न ङीप् - तस्य - हरतीति हर:- हे त्रिपुरहर त्रिपुरान्तक । शं सुखमस्माद्भवतीति शंभो । त्रिनयन हे त्र्यम्बक * क्षुभ्नादित्वान्न णत्वम् - एतदामन्त्रणचतुष्टयं परमेश्वरस्य लोकसंग्रहकारण त्याशक्यकार्यकरणसामर्थ्य भक्तजनसुखसंधायक- त्वासाधारण महिमास्पदत्वद्योतनार्थमित्यवगन्तव्यं । प्रसीद प्रसन्नो भवेति। आक्रोशनच्चैरटन् । दिवसाननेकान् । निमिषमिव क्षणमिव । नेष्यामि - अत्र भावितीव्रनरकयातनानुचिन्तनादिभिर्विभावैर्जनितः . कौपीनधारणशिरोञ्जलिपुटसंघटनादिभिरनुभावैरभिव्यक्तः - कदे ति पदसूचितेन चिन्ताख्येन संचारिभावेन च परिपुष्टः - स्वात्मावमान-