व्या.----अथ येगिनां मानावमानतुल्यतामाह-चण्डाल इति।
अयं परिदृश्यमानः चण्डालः किं अन्त्यजो वा । अथवेति पक्षान्तरे।
द्वे जाती शूद्रत्वब्राह्मण्यरूपे यस्य स तथोक्तः किं ब्राह्मणो वा -
" जन्मना जायते शूद्रः कर्मणा जायते द्विज' इति वचनादिति
भावः - यद्वा - द्वे जाती जन्मनी - गर्मनिर्गमसंस्काराभ्यां यस्य सः
द्विजातिः किम् ? अथ यद्वा - शूद्रः किं वृषलो वा किं ? वा यद्वा -
तापसः किं तपोनिष्ठो वा किं ? किं वा तत्त्वविवेक पेशला परमार्थ-
पर्यालोचनतत्परा - मतिर्यस्य - स तथोक्तः कश्चित्कोऽपि । योगी-
श्वरः किं ध्याननिष्ठो वा इत्यनेन - प्रकारेणोत्पन्नैरुदितैः विकल्पज-
ल्पैर्विकल्पवाक्यैर्मुखरा वाचालास्तै रित्थं भूतानि वाक्यानि
वदद्भिरित्यर्थः । जनैः । पार्थ मार्गे आभाष्यमाणा अधिक्षिप्यभाणा
अपि । न क्रुद्धाः न कोपिताः चण्डालवाद्याक्षेपेणेति भावः । नैव
तुष्टमनसः न संतुष्टान्तःकरणाश्च - द्विजातिवाद्याक्षेपणेतिभावः ।
योगिनो योगारूढाः । स्वयं यान्ति तूष्णीं गच्छन्ति - ब्रह्मनिष्ठत्वा-
दिति भावः - तथा च गीतावचनं -
'न प्रह्रष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । .
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ।।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ।
ज्ञानविज्ञानतृप्तामा कूटस्थो विजितेन्द्रियः ॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥' इत्यादि ॥
हिंसाशून्यमयत्नलम्य मशनं धात्रा मरुत्कल्पितं
व्याळानां पशवस्तृणाङ्कुरभुजस्तुष्टास्स्थलीशायिनः।