पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
मानशौर्यपद्धतिः

"ढ्रलोपे पूर्वस्य दीर्घोऽण' इति दीर्घः । किं तु। भास्वरौ तेजस्विनौ 'स्थेश भास' इत्यादिना वरच्प्रत्ययः। द्वावुभौ। दिवाकरनिशा- प्राणेश्वरौ सूर्याचन्द्रमसावेव - अन्ययोगव्यवच्छेदार्थकोऽयमेव कारः । शीर्षमेवावशेषो यस्यास्सा शीर्षावशेषा आकृतिर्यस्य शिरोमात्रावशिष्टगात्र इत्यर्थः - शीर्षावशेषीकृत' इति पाठेऽव्ययमे- वार्थः परिणमयितव्यः । दानवपतिर्दानवेश्वरः पूर्वोक्तो राहुः । पर्वणि दर्शपौर्णमासीप्रतिपत्संधौ। प्रमति गिलति। हे भ्रातरि- त्यादरेण पृथग्जनसंबोधनम् । पश्येत्यत्र वाक्यार्थः कर्म.--- यत श्शिरोमात्रावशिष्ट एवाय मीद्दक्कर्ताचरणतत्परोऽभूत्संपूर्णाङ्गश्चेत्त्किं- करिष्यति न जानार्माति भावः; एव मानशौर्यशालिनो हि निजाङ्गवैकल्यं न परिगणयेयुरिति किं तु महत्कार्यमेव कर्तुं व्यवस्यन्तीति तात्पर्यम्.----पुरा किल देवानाममृतप्रदानसमये विष्णुचक्रेण च्छिन्नशीर्षत्वाच्छिरोमात्रावशिष्टगात्रोऽभूत्सैहिकेय इति पौराणिकी कथाऽत्रानुसंधेया। शार्दूलविक्रीडितं वृत्तम् ॥

वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
काठपतिना मध्यपृष्ठं सदा सच धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-
दहह महतां निस्सीमानश्चरित्रविभूतयः॥ २८ ॥

 व्या.---अथ महतो माहात्म्यमाह-वहतीति. शेषः फणाः सहस्रसंख्याकाः स्फटाः फलकानीव तेषु-स्थितां । भुवनश्रेणि पाता- कादिचतुर्दशविष्टपपक्तिं । वहति धारयति - नि-स्फटायां तु फणा द्वयोर्रित्यमरः । स च शेषः कमठपतिना आदिकूर्मेण ' पति