पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
नीतिशतके

अब पूर्ववाक्यस्थोपमया निव्यूढोत्तरवाक्यस्थोपमेत्यनयोर- ङ्गाङ्गिभावेन संकरः ।।
वसंततिलकावृत्तम् ।।

सत्याऽन्नृता च परुषा प्रियभाषिणी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरीतिः ॥ ३९ ॥

 व्या.--यतो राजानं संबोधितवानपि तन्नीतिः कीदृशीत्या- शङ्कायां तस्या बहुविधत्वमित्याह · सत्येति - सत्या यथार्थभाषिणी। अनृता असत्यवादिनी च । तथा परुषा कठोरभाषिणी। प्रियभाषिणी मधुरालापिनी च । तथा हिंस्रा धातुका - नि-शरारुर्धातुको हिंस्र' इत्यमरः । के 'नमि कम्पीत्यादिना रप्रत्ययः। दयाळुरपि कारुणिका च-नि- स्याद्दयालुः कारुणिक' इत्यमरः ॐ स्पृहि गृही'त्यादिना आलुच्यत्ययः । तथा अर्थपरा धनलुब्धा। वदान्या दानशॉण्डा च । कुत्रचिद्विषय इति सर्वत्राप्यध्याहार्यं-नि-'स्युंर्वदान्यस्थूललक्षदान- शौण्डाबहुप्रद' इत्यमरः। तथा नित्यं प्रतिदिनं - व्ययो धनत्यागो यस्यास्सा तथोक्ता। प्रचुरनित्यधनागमा - प्रचुरं प्रभूतं यथा तथा - नित्यं - धनस्य - आगमः प्राप्तिर्यस्यास्सा तथोक्ता च । अतो वारा- ङ्गना वेश्येव - नि-वारस्त्री गणिका वेश्ये 'त्यमरः । नृपनीतिः राजवृत्तिः । अनेकरूपा बहुप्रकारा - न त्वैकान्तिकीत्यर्थः ; वाराङ्ग- नायामपि विशेषणानि समानि ॥