पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
नीतिशतके

त्युक्तत्वादिति भावः । सर्वभूतेष्वशेषप्राणिष्वनुकम्पया दयया - सामान्यं समदर्शित्वं च। सर्वशास्त्रेषु वेदवेदान्तादिसकलागमेष्वनु- पहतः अविच्छिन्नः - विधिरध्ययनविधानं च - यद्वा 'सर्वभूतानु- कम्पे' ति पृथक्पदम् । तथा सर्वशास्त्रेषु सामान्यमवैषम्यण तत्त- त्सिद्धान्तानुवर्तित्वम्। अनुपहतविधिरलुप्तकर्मानुष्टानं चेत्येष गुण- समुदायः। श्रेयसां पन्था अखण्डितैश्वर्यादिश्रेयःप्राप्तिमार्गः • न त्वेतव्द्यतिरिक्तोऽन्योऽस्तीत्यर्थः । एतादृशगुणसंपत्तिस्सुजनानामेवेति कृत्वा त एव श्लाघ्या इति भावः । अथवा श्रेयसां प्रशस्यानां सुज- नानां संबन्धी। पन्था तत्प्रवृत्तिमार्ग इत्यर्थः - प्रशस्यशब्दादीय- सुनि* 'प्रशस्यस्य'श्र इति श्रादेशः । अत्र वाञ्छासज्जनसंगता' वित्यादिश्लोकेषूक्तगुणाः प्रायेण॥ दैवसंपत् - अभिजातांनामेव संभ- वति न त्वन्येषां - तदुक्तं भगवद्गीतासु-

" अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।।
अहिंसा सत्यमक्रोधस्त्यागशान्तिरपैशुनम् ।
दया भूतेष्वलोलत्वं मार्दवं ह्रीरचापलम् ।।
तेजः क्षमा धृतिइशौचमद्रोहो नातिमानिता।
वदन्ति संपदं दैवी मभिजातस्य भारत ॥”

इति ॥

 स्रग्धरावृत्तं-"म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” ॥ इति लक्षणात् ।।

संपत्सु महतां चित्तं भवेदुत्पलकोमलम् ।
आपत्सु च महाशैलं शिलासङ्घातकर्कशम् ॥ ५६ ॥